Skip to main
Gurunamandala artwork

Gurunamandala

harishkumarmm

· 1:37 · 4 plays · v3-preview

About

Gurunamandala

Lyrics

जन्मप्राग् मातृगर्भेऽपि यद्गुरोः करुणा स्रुता ।

अज्ञातोऽपि स मे नाथः प्रेम्णा रक्षति सर्वदा ॥ गर्भस्थं मां गीतया या पवित्रयत्

मन्त्रैर्वैदिकैश्च मां समन्त्रयत् ।

अलिमेलुमङ्गाम्बा मे जननी

वैकुण्ठे श्रीनिवासं पश्यतु नित्यम् ॥ भागवतं सुरभिकृष्णमूर्तिं च

दत्त्वा दिव्यप्रेरणया मे पिता ।

नरसिंहरावः श्रीमान् स एव

गोविन्देन नित्यं सुरक्षितोऽस्तु ॥ दूरेऽपि पाण्डुरङ्गं सा स्मरन्ती प्रेम दर्शयत् ।

यशोदाम्बा पितामह्यः गोविन्दात्मनि तिष्ठतु ॥ श्रीलक्ष्मी शालिनी चोभे मातृतुल्यस्नेहभाजे ।

दुःखेऽपि मां यारक्षेतां गोविन्देन सुरक्षिते ॥ क्लेशकाले सुमलथा भगिनीवत् सहाय्यकृत् ।

संकटान्मां विमुच्याथ गोविन्दः पातु तां सदा ॥

Comments

No comments yet.